हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 6 – युद्धकाण्ड षष्ठः सर्गः (६)
॥ रावणमन्त्रणम् ॥
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् ।
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना ॥ १ ॥
अब्रवीद्राक्षसान् सर्वान् ह्रिया किञ्चिदवाङ्मुखः ।
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ॥ २ ॥
तेन वानरमात्रेण दृष्टा सीता च जानकी ।
प्रासादो धर्षितश्चैत्यः प्रबला राक्षसा हताः ॥ ३ ॥ [प्रवरा]
आकुला च पुरी लङ्का सर्वा हनुमता कृता । [आविला]
किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ॥ ४ ॥
उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ।
मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः ॥ ५ ॥
तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ।
त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः ॥ ६ ॥
तेषां तु समवेतानां गुणदोषौ वदाम्यहम् ।
मन्त्रिभिर्हितसम्युक्तैः समर्थैर्मन्त्रनिर्णये ॥ ७ ॥
मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः ।
सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् ॥ ८ ॥
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ।
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ॥ ९ ॥
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ।
गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम् ॥ १० ॥
करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ।
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ॥ ११ ॥
एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमः ।
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ॥ १२ ॥
मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ।
बह्व्योऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णये ॥ १३ ॥
पुनर्यत्रैकतां प्राप्ताः स मन्त्रो मध्यमः स्मृतः ।
अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते ॥ १४ ॥
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ।
तस्मात्सुमन्त्रितं साधु भवन्तो मतिसत्तमाः ॥ १५ ॥
कार्यं सम्प्रतिपद्यन्तामेतत्कृत्यं मतं मम ।
वानराणां हि वीराणां सहस्रैः परिवारितः ॥ १६ ॥
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ।
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ॥ १७ ॥
तरसा युक्तरूपेण सानुजः सबलानुगः ।
समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा ॥ १८ ॥
अस्मिन्नेवं गते कार्ये विरुद्धे वानरैः सह ।
हितं पुरे च सैन्ये च सर्वं सम्मन्त्र्यतां मम ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकण्डे षष्ठः सर्गः ॥ ६ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.